|
|
 |
 |
|
|
१६आश्रमवासिकपर्व.jpg)
आश्रमवासिकपर्व - अध्याय 005
॥ श्रीः ॥
16.5. अध्यायः 005
अथाश्रमवासपर्व ॥ 1 ॥
Mahabharata - AshramaVasika Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति सहेतूपन्यासं धृतराष्ट्रस्य धृतराष्ट्रस्य वनगमनाभ्यनुज्ञानचोदनापूर्वकं स्वाश्रमगमनम्॥ 1 ॥ युधिष्ठिरेणि धृतराष्ट्रंप्रति कृच्छ्रेण तदभ्यनुज्ञानाङ्गीकरणम्॥ 2 ॥
Mahabharata - AshramaVasika Parva - Chapter Text
व्यास उवाच।
युधिष्ठिर महाबाहो ********** कुरुनन्दनः।
धृतराष्ट्रो महातेजास्तत्कुरुष्वाविचारयन्॥ 16-5-1(97360)
अयं हि वृद्धो नृपतिर्हतपुत्रो विशेषतः।
नेदं कृच्छ्रं चिरतरं सहेदिति मतिर्मम॥ 16-5-2(97361)
गान्धारी च महाभागा प्राज्ञा करुणवेदिनी।
पुत्रशोकं महाराज धैर्येणोद्वहते भृशम्॥ 16-5-3(97362)
अहमप्येतदेव त्वां ब्रवीमि कुरु मे वचः।
अनुज्ञां लभतां राजा मां वृथेह मरिष्यति॥ 16-5-4(97363)
`स्वस्थो भवत्वयं धीमान्वनेषु मधुगन्धिषु।'
राजर्षीणां पुराणानामनुयातु गतिं नृपः। राजर्षीणां हि सर्वेषामन्ते वनमुपाश्रयः॥ 16-5-5(97364)
वैशम्पायन उवाच। 16-5-6x(8036)
इत्युक्तः स तदा राजा व्यासेनाद्भुतकर्मणा।
प्रत्युवाच महातेजा धर्मराजो महामुनिम्॥ 16-5-6(97365)
भगवानेव नो मान्यो भगवानेव नो गुरुः।
भगवानस्य राज्यस्य कुलस्य च परायणम्॥ 16-5-7(97366)
अहं तु पुत्रो भगवन्पिता राजा गुरुश्च मे।
निदेशवती च पितुः पुत्रो भवति धर्मतः॥ 16-5-8(97367)
वैशम्पायन उवाच। 16-5-9x(8037)
इत्युक्तः स तु तं प्राह व्यासो वेदविदांवरः।
युधिष्ठिरं महातेजाः पुनरेव महाकविः॥ 16-5-9(97368)
एवमेतन्महाभाग यथा वदसिं भारत।
राजाऽयं वृद्धतां प्राप्तः प्रमाणे परमे स्थितः॥ 16-5-10(97369)
सोयं मयाऽभ्यनुज्ञातस्त्वथा च पृथिवीपतिः।
करोतु स्वमभिप्रायं मा स्म विघ्नकरो भव॥ 16-5-11(97370)
एष एव परो धर्मो राजर्षीणां युधिष्ठिर।
समरे वा भवेन्मृत्युर्वने वा विधिपूर्वकम्॥ 16-5-12(97371)
पित्रा तु तव राजेन्द्र पाण्डुना पृथिवीक्षिता।
शिष्यभूतेन राजाऽयं गुरुवत्पर्युपासितः॥ 16-5-13(97372)
क्रतुभिर्दक्षिणावद्भी रत्नपर्वतशोभितैः।
महद्भिरिष्टं गौर्भुक्ता प्रजाश्च परिपालिताः॥ 16-5-14(97373)
पुत्रसंस्यं च विपुलं राज्यं विप्रोषिते त्वयि।
त्रयोदशसमा भुक्तं दत्तं च विविधं वसु॥ 16-5-15(97374)
त्वया चायं नरव्याघ्र गुरुशुश्रूषयाऽनघ।
आराधितः स भृत्येन गान्धारी च यशस्विनी॥ 16-5-16(97375)
अनुजानीहि पितरं समयोऽस्म तपोविधौ।
न मन्युर्विद्यते चास्य सुसूक्ष्मोऽपि युधिष्ठिर॥ 16-5-17(97376)
वैशम्पायन उवाच। 16-5-18x(8038)
एतावदुक्त्वा वचनमनुमान्य च पार्थिवम्।
तथाऽस्त्विति च तेनोक्तः कौतेयेन ययौ वनम्॥ 16-5-18(97377)
गते भगवति व्यासे राजा पाण्डुसुतस्तदा।
प्रोवाच पितरं वृद्धं मन्दंमन्दमिवानतः॥ 16-5-19(97378)
यदाह भगवान्व्यासो यच्चापि भवतो मतम्।
यथाऽऽह च महेष्वासः कृपो विदुर एव च॥ 16-5-20(97379)
युयुत्सुः संजयश्चैव तत्कर्तास्म्यहमञ्जसा।
सर्व एव हि मान्या मे कुलस्य हि हितैषिणः॥ 16-5-21(97380)
इदं तु याचे नृपते त्वामहं शिरसा नतः।
क्रियतां तावदाहारस्ततो गच्छाश्रमं प्रति॥ ॥ 16-5-22(97381)
इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि पञ्चमोऽध्यायः॥ 5 ॥
Mahabharata - AshramaVasika Parva - Chapter Footnotes
7-5-17 तपोविधौ तपःकरणे॥ 18 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|